Plate II.

[1] तुरगखरमुखरखुरोत्खातधरिणिधूलिधूसरितदिगन्तरे कुन्तप्रान्तनितान्तविमर्द्यमानरभसाभिधावितो

[2] द्भटस्थूलोदरविवरविनिर्ग्गतांत्रप्रथुतररुधिरधारांजितकवचभीषणवपुषि स्वामिमहा

[3] सन्मानदानग्रहणᳲक्रयीकृतस्वशिरोभिरभिमुखमापतितैप्रदंयदशनाग्रदष्टोष्टपुटकैरने

[4] कसमराजिरविवरवरिकटितटहयविधटनविशालितधनरुधिरपटलपाटलितपटुक्रपाणपठ्ठैरपि महा

[5] योवैरलब्वपरभागैः विपक्षक्षपणाक्षेपक्षिप्रक्षिप्रतीक्ष्णक्षुरप्रप्रहारविलूनवैरिशिरᳲकमलगलनालैरा

[6] हवरसरभसरोमांचकंचुकाच्छादिततनूभिरनेकैरपि नरेन्द्रव्रंदव्रदारकैरजितपुर्वैः व्यपगतमस्माक

[7] म्रणमनेन स्वामिनः स्वशिरः प्रदानेनाद्यतावदेकजन्मीयमित्येवमिषोपजातपरितोषानन्तरप्रहतपटुप

[8] टहरवप्रवृत्तकबन्वबद्धरासमण्डलीके समरशिरासे विजितेताजिकानिके शोय्यानुरागिणा श्रीवदत्रमनरें

[9] द्रेण प्रसादीकृतापरनामचतुष्टयस्तद्ध्यथा दक्षिणापथसाधारणचलुक्विकुलालंकारपृथ्वीवदत्रमानिवर्त्तकनिव